|
|
 |
 |
|
|
११ स्त्रीपर्व.jpg)
॥ श्रीः ॥
11.20. अध्यायः 020
Mahabharata - Strii Parva - Chapter Topics
कृष्णंप्रति गान्धार्या रुदन्तीनां स्त्रीणां प्रदर्शनम्॥ 1 ॥

Mahabharata - Strii Parva - Chapter Text
गान्धार्युवाच। 11-20-0x(5355)(65367)
अध्यर्धगुणमाहुर्यं बले शौर्ये च केशव।
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम्॥ 11-20-1(65368)
यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम्।
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः॥ 11-20-2(65369)
तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः।
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति॥ 11-20-3(65370)
एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः।
हतं बाला पतिं वीरं दृष्ट्वा शोचत्यनिन्दिता॥ 11-20-4(65371)
तमेषा हि समागम्य भार्या भर्तारमन्तिके।
विराटदुहिता कृष्ण पाणिना परिमार्जति॥ 11-20-5(65372)
तस्य वक्त्रमुपाघ्राय सौभद्रस्य मनस्विनी।
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम्॥ 11-20-6(65373)
कामरूपवती चैषा परिष्वजति भामिनी।
लज्जमाना पुरा चैनं माध्वीकमदमूर्च्छिता॥ 11-20-7(65374)
तस्य क्षतजसन्दिग्धं जातरूपपरिष्कृतम्।
विमुच्य कवचं कृष्ण शीरमभिवीक्षते॥ 11-20-8(65375)
अवेक्षमाणा तं बाला कुष्ण त्वामभिभाषते।
अयं ते पुण्डरीकाक्ष कसदृशाक्षो निपातितः॥ 11-20-9(65376)
बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ।
रूपेण च तथाऽत्यर्थं शेते भुवि निपातितः॥ 11-20-10(65377)
अत्यन्तं सुकुमारस्य राङ्कवाजिनशायिनः।
कच्चिदद्य शरीरं ते भूमौ न परितप्यते॥ 11-20-11(65378)
मातङ्गभुजवर्ष्णाणौ ज्याक्षेपकठिनत्वचौ।
काञ्चनाङ्गदिनौ शेते निक्षिप्य विपुलौ भुजौ।
व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव॥ 11-20-12(65379)
एवं विलपतीमार्तां किं मां न प्रतिभाषसे।
न स्मराम्यपराधं ते किं मां न प्रतिभाषसे॥ 11-20-13(65380)
ननु मां त्वं पुरा दूरादभिवीक्ष्याभिभाषसे।
न स्मराम्यपराधं मे किं मां न प्रतिभाषसे॥ 11-20-14(65381)
आर्यामार्य सुभद्रां तवमिमां श्च त्रिदशोपमान्।
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि॥ 11-20-15(65382)
तस्य शोणितदिग्धान्वै केशानुन्नम्य पाणिना।
उत्सङ्गे वक्तमाधाय जीवन्तमिव पृच्छति॥ 11-20-16(65383)
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः।
कथं त्वां रणमध्यस्थं जघ्रुरेते महारथाः॥ 11-20-17(65384)
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान्।
द्रोणद्रौणायतनी चोभौ यैरहं विधवा कृता॥ 11-20-18(65385)
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः।
बालं त्वां पिरवार्यैकमनेकेषां च जघ्नताम्॥ 11-20-19(65386)
कथं नु पाण्डवानां च पाञ्चालानां तु पश्यताम्।
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत्॥ 11-20-20(65387)
दृष्ट्वा बहुभिराक्रन्दे निहतं त्वां पिता तव।
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः॥ 11-20-21(65388)
न राज्यलाभो विपुलः शत्रूणां च पराभवः।
प्रीतिं धास्यति पार्थानां त्वामृते पुष्करेक्षण॥ 11-20-22(65389)
तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च।
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय॥ 11-20-23(65390)
दुर्मरं पुनरप्राप्ते काले भवति केनचित्।
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा॥ 11-20-24(65391)
कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा।
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि॥ 11-20-25(65392)
नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि।
परमेण च रूपेण गिरा च स्मितपूर्वया॥ 11-20-26(65393)
प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान्।
सौभद्र विहन्काले स्मरेथाः सुकृतानि मे॥ 11-20-27(65394)
एतावानिह संवासो विहितस्ते मया सह।
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः॥ 11-20-28(65395)
इत्युक्तवचनामेनामपकर्षन्ति दुःखिताम्।
उत्तरां मोघसङ्कल्पां मत्स्यराजकुलस्त्रियः॥ 11-20-29(65396)
उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम्।
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च॥ 11-20-30(65397)
द्रोणास्त्रशरसङ्कृत्तं शयानं रुधिरोक्षितम्।
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः॥ 11-20-31(65398)
वितुद्यमानं विहगैर्विराटमसितेक्षणाः।
न शक्नुवन्ति विहगान्निवारयितुमातुराः॥ 11-20-32(65399)
आसामातपतप्तानामायासेन च योषिताम्।
श्रमेण च विवर्णानां वक्त्राणां विप्लुतं वपुः॥ 11-20-33(65400)
उत्तरं चाभिमन्युं च काम्भोजं च सुदक्षिणम्।
कार्ष्णिनाऽभिहतं पश्य लक्ष्मणं प्रियदर्शनम्। 11-20-34(65401)
आयोधनशिरोमध्ये शयानं पश्य माधव॥ ॥ 11-20-35(65402)
इति श्रीमन्महाभारते कर्णपर्वणि
Mahabharata - Strii Parva - Chapter Footnotes
11-20-1 अध्यर्धगुणं सार्धुगुणम्॥ 1 ॥ 11-20-24 दुष्करं पुनरप्राप्तं काले भवति केनचित् इति क.पाठः। दुष्करं प्रति न प्राप्तमित्यादि छ.ट. पाठः॥ 11-20-33 वपुः शस्ताकृतिः। वपुः क्लीबं तनौ शस्ताकृतावपीति मेदिनी॥ 11-20-20 विंशतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|